९. विभक्तिमाला ।( सर्वेषाम् स्वस्तिर्भवतु ।सभी के लिए सुख और समृद्धि हो।") BY SUJEET SIR,9709622037,8340763695, ARARIA, BIHAR.

९. विभक्तिमाला ।


धर्मो जयति नाधर्मः, सत्यं जयति नानृतम् ।
क्षमा जयति न क्रोधो, देवो जयति नासुरः ।। प्रथमा ।।






वसुदेवसुतं देवं कंसचाणूरमर्दनम् । 
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ।। द्वितीया ।।






 काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । 
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ।। तृतीया ।।






विद्या विवादाय धनं मदाय खलस्य शक्तिः परपीडनाय । साधोस्तु सर्वं विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ।।चतुर्थी।।



 तैलाद्रक्षेद् जलाद्रक्षेद् रक्षेत् शिथिलबन्धनात् । 
मूर्खहस्ते न दातव्यम् एवं वदति पुस्तकम् ।। पञ्चमी ।।






नरस्याभरणं रूपं रूपस्याभरणं गुणः । 
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ।। षष्ठी।। 







व्यसने मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति । 
विनये भृत्यपरीक्षा दानपरीक्षा च दुर्भिक्षे ।। सप्तमी ।।





आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । 
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ।। सम्बोधनम् ।।





रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ।।

टिप्पणियाँ