पूर्णविजय-संकल्पोऽस्माक गीतम्( उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा:।)By sujeet sir,9709622037,Araria,Bihar .








1.पूर्णविजय-संकल्पोऽस्माकम्
गीतम्



पूर्णविजयसंकल्पोऽस्माकं सततपरीश्रमशीलवताम् । 
आयुग-मविरत-मनुवर्तत इह राष्ट्रधर्म- समुपासनम् ।।
वन्दे मातृभुवं वन्दे ।।
वन्दे जगदम्बा वन्दे ||





पुण्यपुरातन- देशोऽस्माकं मानवतार्चन - शक्तिमताम् । 
प्रवहति पावनसंस्कृतिगंगा किल्विष जातमपादधति । सकलविश्व-मङ्गलसंरचने जुहोति सर्वोऽप्यात्मानम् ।।                 ।। आयुगमविरतमनु. ||



परमो मन्त्रः समरसता न शक्तिसम्भृतं राष्ट्रमिदम् 
पूर्वजगौरव-गाथाऽस्माकं मार्गदर्शिका प्रेरिका । भविष्यपथमुज्जवलमाधातुं शक्तिं सञ्चिनुमो नियतम्।।
आयुगमविरतमनु....।।






मातृभूमिराराध्ये यंनो गतिरस्माकं सैव परा,
ईशकार्यमिदमे- वास्माकं जीवितैक-संकल्पनम् सज्जनिर्मित-कार्यर्थेऽस्मिन् ननु यमो वयमनवरतम्
   ।। आमुगमविरतमनु...।।














2.देववाणी वेदवाणीं मातरं वन्दामहे


देववाणी वेदवाणीं मातरं वन्दामहे ।
 चिरनवीनां चिरपुराणी सादरं वन्दामहे ।।


दिव्यसंस्कृतिरक्षणार्थं तत्परा भुवने भ्रमन्तः, 
लोकजागरणाय सिद्धाः सङ्घटनमन्त्र जपन्तः 
कृतिपरा लक्ष्यैकनिष्ठा भारत सेवामहे ।। 1।। 
|| देववाणीं ...... 11



भेदभावनिव्राणार्थं बन्धुतामनुभावयेम
 कर्मणा मनसा च वचसा मातृवन्दनमाचरेम् कीर्तिधनपदकामनाभिर्विरहिता मोदामहे ।। 2
1। देववाणी 11



संस्कृतेर्विमुखं समाजं जीवनेन शिक्षयेम
 मनुकुलादर्श समन्तात् पालयित्वा दर्शयेम 
जीवन संस्कृत हितार्थं स्वर्पित मन्यामहे ॥ ३ ॥
 ।। देववाणीं 11





वयमसाध्यं लक्ष्यमेतत् संस्कृतेन साधयन्तः, 
त्यागधैर्यसमर्पणेन नवलमितिहासं लिखन्तः
 जन्मभूमिसमर्थनेन सर्वत स्पन्दामहे ।।4।। 
।। देववाणीं 11




भारताः सोदराः सर्वे भावमेतं हृदि विदधतः, 
वयं संस्कृतसाधका इह सज्जिता नैजं विधाय परमवैभवसाधनार्थ वरमहो याचामहे ।। 5 ।। 
।। देववाणी .....।।

















3. मृदपि च चन्दनमस्मिन् देशे



मृदपि च चन्दनमस्मिन् 
देशे ग्रामो ग्रामः सिद्धवनम् ।
यत्र च बाला देवीस्वरूपा
 बालाः सर्वे श्रीरामाः ।। 
।। यत्र च ..... ।।


हरिमन्दिरमिदमखिलशरीरम् 
धनशक्ती जनसेवायै । 
यत्र च क्रीडायै वनराजः 
धेनुर्माता परमशिवा || 
नित्यं प्रातः शिवगुणगानं
दीपनुतिः खलु शत्रुपरा ।।1।।
।। यत्र च ।।



 भाग्यविधायि निजार्जित कर्म 
यत्र श्रमः श्रियमर्जयति । 
त्यागधनानां तपोनिधीनां
गाथा गायति कविवाणी ।।
गङ्गाजलमिव नित्यनिर्मल 
ज्ञानं शंसति यतिवाणी ।। 211
।। यत्र च 11

यत्र हि नैव स्वदेहविमोहः
युद्धरतानां वीराणाम् ।
 यत्र हि कृषकः कार्यरतः सन्
 पश्यति जीवनसाफल्यम् ।।
 जीवनलक्ष्यं न हि धनपदवी
यत्र च परशिवपदसेवा ।। 3 ।।
।। यत्र च ..... ।।













 4. अवनितलं पुनरवतीर्णा स्यात्

अवनितलं पुनरवतीर्णा स्यात्, संस्कृतगङ्गाधार धीरभगीरथवंशोऽस्माकं, वयं तु कृतनिर्धाराः ।।





निपततु पण्डितहरशिरसि,
प्रवहतु नित्यमिदं वचसि ।
प्रविशतु वैयाकरणमुखं,
पुनरपि वहताज्जनमनसि ।
पुत्रसहस्रं समुद्धृतं स्यात्,
यान्तु च जन्मविकाराः ।। 1|| 
||  धीरभगीरथ ।।



ग्रामं ग्रामं गच्छाम,
 संस्कृतशिक्षां यच्छाम ।
सर्वेषामपिं तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम।
कृते प्रयत्ने किं न लभेत
एवं सन्ति विचाराः ।। 2 ।।
 ।। धीरभगीरथ.. ।।




या माता संस्कृतिमूला
 यस्या व्याप्तिस्सुविशाला।
वाङ्मयरूपा सा भवतु,
लसतु चिरं सा वाङ्माला ।
सुरवाणी जनवाणीं कर्तुं
यतामहे कृतिशूराः ।। 3 ।।
 ।। धीरभगीरथ ।।












5.पाठयेम संस्कृतम्

पाठयेम संस्कृतं जगति सर्वमानवान् । 
प्रापयेम भारतं सपदि परमवैभवम् ।।




व्यक्तियोजकत्वमेव नायकत्वलक्षणम्
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
स्नेहशक्तिशीलशौर्यदेशभक्तिभूषितम्
साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ।। 1।। 
||।   पाठयेम.........।।




हिन्दुबन्धुमेलनेन सर्वदोषनाशनम्
उच्चनीचजातिराज्यभेदभावकरणम्
सामरस्यरक्षणेन शान्तिपूर्णजीवनम् कालयोग्यमेतदेव मोक्षदायिदर्शनम् ।। 2 11
|| पाठयेम .......II




जीवनस्य कार्यमेव राष्ट्रकर्मसाधना
सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना
व्यक्तिरस्तु वर्तिकेति मामकीनभावना
साधितास्तु माधवस्य विश्वविजयकामना ।। 3 ।।
|| पाठयेम..........11









6.गीतम
कालिदासो जने जने
 कण्ठे कण्ठे संस्कृतम् । 
ग्रामे ग्रामे नगरे नगरे 
गेहे गेहे संस्कृतम् ।  कालिदासो.........।



सरलाभाषा मधुराभाषा
दिव्याभाषासंस्कृतम् ।। कालिदासो..........।


मुनिजनवाणी कविजनवाणी
 बुधजनवाणी संस्कृतम् ।। कालिदासो.........।




सद्व्यवहारे कार्यक्षेत्रे ।
 वार्तालापे संस्कृतम् ।। कालिदासो,,..........।



जने जने रामायण चरितम्
प्रियजनभाषा संस्कृतम् ।। कालिदासो,...........।




स्थाने स्थाने भारतदेशे ।
सदने सदने संस्कृतम् ।। कालिदासो..........।



मुनिजनवाञ्छा कविजनवाञ्छा ।
बुधजनवाञ्छा संस्कृतम् ।। कालिदासो..........।